|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.304. अध्यायः 304
Mahabharata - Vana Parva - Chapter Topics
स्वावासे दुर्वाससमावासयता कुन्तिभोजेन तत्परिचर्यायै कुन्त्या नियोजनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
जनमेजय उवाच। 3-304-0x(2829)(27638)
किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना।
कीदृशेकुण्डले ते च कवचं रचैव कीदृशम् ॥ 3-304-1(27639)
कुतश्च कवचं तस्यं कुण्डलेचैव सत्तम।
एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन ॥ 3-304-2(27640)
वैशम्पायन उवाच। 3-304-3x(2830)
अहं राजन्ब्रवीम्येतत्तस्य गुह्यं विभावसोः।
यादृशे कुण्डले ते च कवचं वैव यादृशम् ॥ 3-304-3(27641)
कुन्तिभोजं पुरा राजन्ब्राह्मणः पर्युपस्थितः।
तिग्मतेजा महान्प्रांशुः श्मश्रुदण्डजटाधरः ॥ 3-304-4(27642)
दर्सनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव।
मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः ॥ 3-304-5(27643)
स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः।
भिक्षामिच्छामि वै भोक्तुं तव गेहे विमत्सर ॥ 3-304-6(27644)
न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः।
एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ ॥ 3-304-7(27645)
यथाकामं च गच्छेयमागच्छेयं तथैव च।
शय्यासने च मे राजन्नापराध्येत कश्चन ॥ 3-304-8(27646)
तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः।
एवमस्तु परंचेति पुनश्चैवमथाब्रवीत् ॥ 3-304-9(27647)
मम कन्या महाप्राज्ञ पृथा नाम यशस्विनी।
शीलवृत्तान्विता साध्वी नियताऽनवमानिनी ॥ 3-304-10(27648)
उपस्थास्यति सा त्वां वै पूजयाऽनवमत्य च।
तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि ॥ 3-304-11(27649)
एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि।
उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम् ॥ 3-304-12(27650)
अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति।
मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम् ॥ 3-304-13(27651)
त्वयि वत्से परायत्तं ब्राह्मणस्याभिराधनम्।
तन्मे वाक्यममिथ्या त्वं कर्तुमर्हसि कर्हिचित् ॥ 3-304-14(27652)
अयं तपस्वी भगवान्स्वाध्यायनियतो द्विजः।
यद्यद्ब्रूयान्महातेजास्तत्तद्देयमात्सरात् ॥ 3-304-15(27653)
ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः।
ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते ॥ 3-304-16(27654)
अमानयन्हि दाण्डक्यो वातापिश्च महासुरः।
निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च।
`वैन्ध्याद्रिश्च समुद्रश्च नद्दुषश्च विहिंसितः' ॥ 3-304-17(27655)
सोयं वत्से महाभार आहितस्त्वयि सांप्रतम्।
त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम् ॥ 3-304-18(27656)
जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि।
ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह ॥ 3-304-19(27657)
तथा प्रेष्येषु सर्वेषु मित्रसंबन्धिमातृषु।
मयि चैव यथावत्त्वंसर्वमावृत्य वर्तसे ॥ 3-304-20(27658)
न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते।
सम्यग्वृत्त्याऽनवद्याङ्गि तव भृत्यजनेष्वपि ॥ 3-304-21(27659)
संदेष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति।
पृथे बालेति कृत्वा वै सुता चासिममेति च ॥ 3-304-22(27660)
वृष्णीनां च कुले जाता शूरस् दयिता सुता।
दत्ता प्रीतिमता मह्यं पित्रा बाला पुरास्वयम् ॥ 3-304-23(27661)
वसुदेवस् भगिनी सुतानां प्रवरा मम।
अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम ॥ 3-304-24(27662)
तादृशे हि कुले जाता कुले मम विवर्धिता।
सुखात्सुखमनुप्राप्ता ह्रदाद्ध्रदमिवापगा ॥ 3-304-25(27663)
दौष्कुलेया विशेषेण कथंचित्प्रग्रहं गताः।
बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे ॥ 3-304-26(27664)
पृथे राजकुले जन्म रूपं चापि तवाद्भुतम्।
तेन तेनासि संपन्ना समुपेता च भामिनि ॥ 3-304-27(27665)
सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि।
आराध्यवरदं विप्रं श्रेयसा योक्ष्यसे पृथे ॥ 3-304-28(27666)
एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम्।
कोपिते च द्विजश्रेष्ठे कुत्स्नं दह्येत मे कुलम् ॥ 3-304-29(27667)
इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि चतुरधिकत्रिशततमोऽध्यायः ॥ 304 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-304-11 अनवमत्य अवमानमकृत्वा ॥ 3-304-13 वस्तुं वासं कर्तुम् ॥ 3-304-19 प्रणिधानं चित्तैकाग्र्यम् ॥ 3-304-20 आवृत्यव्याप्य ॥ 3-304-24 अग्र्यं अग्रे देयं मया प्रथममपत्यं तुभ्यं देयमिति प्रतिज्ञातमित्यर्थः ॥ 3-304-25 ह्रदमिवागतेति झ. पाठः ॥ 3-304-26 दौष्कुलेयाः दुष्कुले जाताः। प्रग्रहं निर्वन्यं गताः प्राप्ताः विकुर्वन्ति दौष्ठ्यं कुर्वन्ति ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|